७.६.३९

इति माली सुमाली च माल्यवानग्रजः प्रभुः ।
उद्योगं घोषयित्वाथ राक्षसाः सर्व एव ते ।
युद्धाय निर्ययुः क्रुद्धा जम्भवृत्रबला इव ॥

पदच्छेदः

इतिइति (अव्ययः)
मालीमालिन् (१.१)
सुमालीसुमालिन् (१.१)
(अव्ययः)
माल्यवान्माल्यवन्त् (१.१)
अग्रजःअग्रज (१.१)
प्रभुःप्रभु (१.१)
उद्योगंउद्योग (२.१)
घोषयित्वाथघोषयित्वा (√घोषय् + क्त्वा)–अथ (अव्ययः)
राक्षसाःराक्षस (१.३)
सर्वसर्व (१.३)
एवएव (अव्ययः)
तेतद् (१.३)
युद्धाययुद्ध (४.१)
निर्ययुःनिर्ययुः (√निः-या लिट् प्र.पु. बहु.)
क्रुद्धाक्रुद्ध (√क्रुध् + क्त, १.३)
जम्भवृत्रबलाजम्भ–वृत्र–बल (१.३)
इवइव (अव्ययः)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
ति मा लीसु मा ली माल्य वा
ग्र जःप्र भुः द्यो गं घो यि त्वा
राक्ष साःर्व ते यु द्धानि
र्य युः क्रु द्धाम्भ वृत्र ला