७.६.३८

तस्मादद्य समुद्युक्ताः सर्वसैन्यसमावृताः ।
देवानेव जिघांसामो येभ्यो दोषः समुत्थितः ॥

M N Dutt

Therefore, will we even avenge ourselves on the gods, from whom has sprung this wrong.

पदच्छेदः

तस्माद्तस्मात् (अव्ययः)
अद्यअद्य (अव्ययः)
समुद्युक्ताःसमुद्युक्त (√समुद्-युज् + क्त, १.३)
सर्वसैन्यसमावृताःसर्व–सैन्य–समावृत (√समा-वृ + क्त, १.३)
देवान्देव (२.३)
एवएव (अव्ययः)
जिघांसामोजिघांसामः (√जिघांस् लट् उ.पु. द्वि.)
येभ्योयद् (५.३)
दोषःदोष (१.१)
समुत्थितःसमुत्थित (√समुत्-स्था + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्माद्य मु द्यु क्ताः
र्व सैन्य मावृ ताः
दे वा नेजि घां सा मो
ये भ्यो दो षः मुत्थि तः