७.६०.१

कथां कथयतां तेषां जयं चाकाङ्क्षतां शुभम् ।
व्यतीता रजनी शीघ्रं शत्रुघ्नस्य महात्मनः ॥

M N Dutt

They being thus engaged in conversation regarding his achieving victory without any danger Satrughna in no time passed the night.

पदच्छेदः

कथांकथा (२.१)
कथयतांकथयत् (√कथय् + शतृ, ६.३)
तेषांतद् (६.३)
जयंजय (२.१)
चाकाङ्क्षतां (अव्ययः)–आकाङ्क्षत् (√आ-काङ्क्ष् + शतृ, ६.३)
शुभम्शुभ (२.१)
व्यतीताव्यतीत (√व्यति-इ + क्त, १.१)
रजनीरजनी (१.१)
शीघ्रंशीघ्रम् (अव्ययः)
शत्रुघ्नस्यशत्रुघ्न (६.१)
महात्मनःमहात्मन् (६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

थां तां ते षां
यं चा काङ्क्ष तांशु भम्
व्य ती ता नी शी घ्रं
त्रु घ्नस्य हात्म नः