७.६०.१८

तमुवाचाथ शत्रुघ्नः क्व मे जीवन्गमिष्यसि ।
दुर्बलोऽप्यागतः शत्रुर्न मोक्तव्यः कृतात्मना ॥

पदच्छेदः

तम्तद् (२.१)
उवाचाथउवाच (√वच् लिट् प्र.पु. एक.)–अथ (अव्ययः)
शत्रुघ्नःशत्रुघ्न (१.१)
क्वक्व (अव्ययः)
मेमद् (६.१)
जीवन्जीवत् (√जीव् + शतृ, १.१)
गमिष्यसिगमिष्यसि (√गम् लृट् म.पु. )
दुर्बलोदुर्बल (१.१)
ऽप्यागतःअपि (अव्ययः)–आगत (√आ-गम् + क्त, १.१)
शत्रुर्शत्रु (१.१)
(अव्ययः)
मोक्तव्यःमोक्तव्य (√मुच् + कृत्, १.१)
कृतात्मनाकृतात्मन् (३.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मु वा चा त्रु घ्नः
क्व मे जीन्ग मिष्यसि
दुर्ब लो ऽप्या तःत्रु
र्न मो क्त व्यःकृ तात्म ना