७.६१.१

तच्छ्रुत्वा भाषितं तस्य शत्रुघ्नस्य महात्मनः ।
क्रोधमाहारयत्तीव्रं तिष्ठ तिष्ठेति चाब्रवीत् ॥

M N Dutt

Hearing the words of the high-souled Śatrughna Lavaņa was greatly enraged and again and again asked him to wait.

पदच्छेदः

तच्छ्रुत्वातद् (२.१)–श्रुत्वा (√श्रु + क्त्वा)
भाषितंभाषित (२.१)
तस्यतद् (६.१)
शत्रुघ्नस्यशत्रुघ्न (६.१)
महात्मनःमहात्मन् (६.१)
क्रोधम्क्रोध (२.१)
आहारयत्आहारयत् (√आ-हारय् लङ् प्र.पु. एक.)
तीव्रंतीव्र (२.१)
तिष्ठतिष्ठ (√स्था लोट् म.पु. )
तिष्ठेतितिष्ठ (√स्था लोट् म.पु. )–इति (अव्ययः)
चाब्रवीत् (अव्ययः)–अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

च्छ्रु त्वा भाषि तंस्य
त्रु घ्नस्य हात्म नः
क्रो मा हा त्ती व्रं
तिष्ठ ति ष्ठेति चाब्र वीत्