७.६१.२५

वधाय लवणस्याजौ शरः शत्रुघ्नधारितः ।
तेजसा यस्य सर्वे स्म संमूढाः सुरसत्तमाः ॥

पदच्छेदः

वधायवध (४.१)
लवणस्याजौलवण (६.१)–आजि (७.१)
शरःशर (१.१)
शत्रुघ्नधारितःशत्रुघ्न–धारित (√धारय् + क्त, १.१)
तेजसातेजस् (३.१)
यस्ययद् (६.१)
सर्वेसर्व (१.३)
स्मस्म (अव्ययः)
संमूढाःसंमूढ (√सम्-मुह् + क्त, १.३)
सुरसत्तमाःसुर–सत्तम (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

धा स्या जौ
रः त्रुघ्न धारि तः
ते सास्य र्वेस्म
सं मू ढाःसुत्त माः