७.६१.२७

एष वै कैटभस्यार्थे मधुनश्च महाशरः ।
सृष्टो महात्मना तेन वधार्थं दैत्ययोस्तयोः ॥

पदच्छेदः

एषएतद् (१.१)
वैवै (अव्ययः)
कैटभस्यार्थेकैटभ (६.१)–अर्थ (७.१)
मधुनश्चमधु (६.१)–च (अव्ययः)
महाशरःमहत्–शर (१.१)
सृष्टोसृष्ट (√सृज् + क्त, १.१)
महात्मनामहात्मन् (३.१)
तेनतद् (३.१)
वधार्थंवध–अर्थ (२.१)
दैत्ययोस्तयोःदैत्य (६.२)–तद् (६.२)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वै कै स्या र्थे
धुश्च हा रः
सृ ष्टो हात्म ना ते
धा र्थं दैत्य योस्त योः