७.६१.२८

एवमेतं प्रजानीध्वं विष्णोस्तेजोमयं शरम् ।
एषा चैव तनुः पूर्वा विष्णोस्तस्य महात्मनः ॥

पदच्छेदः

एवम्एवम् (अव्ययः)
एतंएतद् (२.१)
प्रजानीध्वंप्रजानीध्वम् (√प्र-ज्ञा लोट् म.पु. द्वि.)
विष्णोस्तेजोमयंविष्णु (६.१)–तेजस्–मय (२.१)
शरम्शर (२.१)
एषाएतद् (१.१)
चैव (अव्ययः)–एव (अव्ययः)
तनुःतनु (१.१)
पूर्वापूर्व (१.१)
विष्णोस्तस्यविष्णु (६.१)–तद् (६.१)
महात्मनःमहात्मन् (६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मे तंप्र जा नी ध्वं
वि ष्णो स्ते जो यं रम्
षा चै नुः पू र्वा
वि ष्णो स्तस्य हात्म नः