७.६४.१

प्रस्थाप्य तु स शत्रुघ्नं भ्रातृभ्यां सह राघवः ।
प्रमुमोद सुखी राज्यं धर्मेण परिपालयन् ॥

M N Dutt

Having bade adieu to Satrughna, Rama, the descendant of Raghu, was greatly delighted by governing his subjects piously in the company of Bharata and Laksmana.

पदच्छेदः

प्रस्थाप्यप्रस्थाप्य (√प्र-स्थापय् + ल्यप्)
तुतु (अव्ययः)
तद् (१.१)
शत्रुघ्नंशत्रुघ्न (२.१)
भ्रातृभ्यांभ्रातृ (३.२)
सहसह (अव्ययः)
राघवःराघव (१.१)
प्रमुमोदप्रमुमोद (√प्र-मुद् लिट् प्र.पु. एक.)
सुखीसुखिन् (१.१)
राज्यंराज्य (२.१)
धर्मेणधर्म (३.१)
परिपालयन्परिपालयत् (√परि-पालय् + शतृ, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

प्र स्थाप्यतु त्रु घ्नं
भ्रा तृ भ्यां रा वः
प्रमु मोसु खी रा ज्यं
र्मेरि पा यन्