७.६४.११

संप्रत्यनाथो विषय इक्ष्वाकूणां महात्मनाम् ।
रामं नाथमिहासाद्य बालान्तकरणं नृपम् ॥

पदच्छेदः

संप्रत्यनाथोसम्प्रति (अव्ययः)–अनाथ (१.१)
विषयविषय (१.१)
इक्ष्वाकूणांइक्ष्वाकु (६.३)
महात्मनाम्महात्मन् (६.३)
रामंराम (२.१)
नाथम्नाथ (२.१)
इहासाद्यइह (अव्ययः)–आसाद्य (√आ-सादय् + ल्यप्)
बालान्तकरणंबाल–अन्त–करण (२.१)
नृपम्नृप (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सं प्रत्य ना थोवि
क्ष्वा कू णां हात्म नाम्
रा मं नामि हा साद्य
बा लान्त णंनृ पम्