७.६४.१०

भ्रातृभिः सहितो राजन्दीर्घमायुरवाप्नुहि ।
उषिताः स्म सुखं राज्ये तवास्मिन्सुमहाबल ॥

पदच्छेदः

भ्रातृभिःभ्रातृ (३.३)
सहितोसहित (१.१)
राजन्राजन् (८.१)
दीर्घम्दीर्घ (२.१)
आयुर्आयुस् (२.१)
अवाप्नुहिअवाप्नुहि (√अव-आप् लोट् म.पु. )
उषिताःउषित (√वस् + क्त, १.३)
स्मस्म (अव्ययः)
सुखंसुखम् (अव्ययः)
राज्येराज्य (७.१)
तवास्मिन्त्वद् (६.१)–इदम् (७.१)
सुमहाबलसु (अव्ययः)–महत्–बल (८.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

भ्रातृ भिःहि तो रा
न्दीर्घ मायु वाप्नुहि
षि ताःस्मसु खं रा ज्ये
वा स्मिन्सु हा