७.६५.७

तस्य तद्वचनं श्रुत्वा राज्ञो दीनस्य नारदः ।
प्रत्युवाच शुभं वाक्यमृषीणां संनिधौ नृपम् ॥

M N Dutt

Hearing those words of the poorly king, Narada, in the presence of all other Rsis, replied.

पदच्छेदः

तस्यतद् (६.१)
तद्वचनंतद् (२.१)–वचन (२.१)
श्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
राज्ञोराजन् (६.१)
दीनस्यदीन (६.१)
नारदःनारद (१.१)
प्रत्युवाचप्रत्युवाच (√प्रति-वच् लिट् प्र.पु. एक.)
शुभंशुभ (२.१)
वाक्यम्वाक्य (२.१)
ऋषीणांऋषि (६.३)
संनिधौसंनिधि (७.१)
नृपम्नृप (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्यद्व नं श्रु त्वा
रा ज्ञो दीस्य ना दः
प्रत्यु वाशु भं वाक्य
मृ षी णां संनि धौनृ पम्