७.६६.१५

कस्यां योन्यां तपोवृद्ध वर्तसे दृढविक्रम ।
कौतूहलात्त्वां पृच्छामि रामो दाशरथिर्ह्यहम् ॥

पदच्छेदः

कस्यां (७.१)
योन्यांयोनि (७.१)
तपोवृद्धतपस्–वृद्ध (√वृध् + क्त, ८.१)
वर्तसेवर्तसे (√वृत् लट् म.पु. )
दृढविक्रमदृढ–विक्रम (८.१)
कौतूहलात्कौतूहल (५.१)
त्वांत्वद् (२.१)
पृच्छामिपृच्छामि (√प्रच्छ् लट् उ.पु. )
रामोराम (१.१)
दाशरथिर्दाशरथि (१.१)
ह्यहम्हि (अव्ययः)–मद् (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्यां यो न्यां पो वृद्ध
र्त सेदृ विक्र
कौ तू ला त्त्वां पृ च्छामि
रा मो दा थिर्ह्य हम्