७.६६.१४

अथैनं समुपागम्य तप्यन्तं तप उत्तमम् ।
उवाच राघवो वाक्यं धन्यस्त्वमसि सुव्रत ॥

पदच्छेदः

अथैनंअथ (अव्ययः)–एनद् (२.१)
समुपागम्यसमुपागम्य (√समुपा-गम् + ल्यप्)
तप्यन्तंतप्यत् (√तप् + शतृ, २.१)
तपतपस् (२.१)
उत्तमम्उत्तम (२.१)
उवाचउवाच (√वच् लिट् प्र.पु. एक.)
राघवोराघव (१.१)
वाक्यंवाक्य (२.१)
धन्यस्त्वम्धन्य (१.१)–त्वद् (१.१)
असिअसि (√अस् लट् म.पु. )
सुव्रतसुव्रत (८.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

थै नंमु पाम्य
प्य न्तंत्त मम्
वा रा वो वा क्यं
न्यस्त्वसि सुव्र