७.६६.१७

ब्राह्मणो वासि भद्रं ते क्षत्रियो वासि दुर्जयः ।
वैश्यो वा यदि वा शूद्रः सत्यमेतद्ब्रवीहि मे ॥

पदच्छेदः

ब्राह्मणोब्राह्मण (१.१)
वासिवा (अव्ययः)–असि (√अस् लट् म.पु. )
भद्रंभद्र (१.१)
तेत्वद् (६.१)
क्षत्रियोक्षत्रिय (१.१)
वासिवा (अव्ययः)–असि (√अस् लट् म.पु. )
दुर्जयःदुर्जय (१.१)
वैश्योवैश्य (१.१)
वावा (अव्ययः)
यदियदि (अव्ययः)
वावा (अव्ययः)
शूद्रःशूद्र (१.१)
सत्यम्सत्य (२.१)
एतद्एतद् (२.१)
ब्रवीहिब्रवीहि (√ब्रू लोट् म.पु. )
मेमद् (६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ब्राह्म णो वासि द्रं ते
क्षत्रि यो वासि दुर्ज यः
वै श्यो वादि वा शू द्रः
त्य मेद्ब्र वीहि मे