७.६६.३

गन्धैश्च परमोदारैस्तैलैश्च सुसुगन्धिभिः ।
यथा न क्षीयते बालस्तथा सौम्य विधीयताम् ॥

पदच्छेदः

गन्धैश्चगन्ध (३.३)–च (अव्ययः)
परमोदारैस्तैलैश्चपरम–उदार (३.३)–तैल (३.३)–च (अव्ययः)
सुसुगन्धिभिःसु (अव्ययः)–सुगन्धि (३.३)
यथायथा (अव्ययः)
(अव्ययः)
क्षीयतेक्षीयते (√क्षि प्र.पु. एक.)
बालस्तथाबाल (१.१)–तथा (अव्ययः)
सौम्यसौम्य (८.१)
विधीयताम्विधीयताम् (√वि-धा प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

न्धैश्च मो दा रै
स्तै लैश्चसुसुन्धि भिः
था क्षी ते बा
स्त था सौम्यवि धी ताम्