७.६६.४

यथा शरीरे बालस्य गुप्तस्याक्लिष्टकर्मणः ।
विपत्तिः परिभेदो वा भवेन्न च तथा कुरु ॥

पदच्छेदः

यथायथा (अव्ययः)
शरीरेशरीर (७.१)
बालस्यबाल (६.१)
गुप्तस्याक्लिष्टकर्मणःगुप्त (√गुप् + क्त, ६.१)–अक्लिष्ट–कर्मन् (६.१)
विपत्तिःविपत्ति (१.१)
परिभेदोपरिभेद (१.१)
वावा (अव्ययः)
भवेन्नभवेत् (√भू विधिलिङ् प्र.पु. एक.)–न (अव्ययः)
(अव्ययः)
तथातथा (अव्ययः)
कुरुकुरु (√कृ लोट् म.पु. )

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

था री रे बास्य
गु प्त स्या क्लिष्टर्म णः
वि त्तिःरि भे दो वा
वेन्न थाकुरु