७.६६.५

तथा संदिश्य काकुत्स्थो लक्ष्मणं शुभलक्षणम् ।
मनसा पुष्पकं दध्यावागच्छेति महायशाः ॥

पदच्छेदः

तथातथा (अव्ययः)
संदिश्यसंदिश्य (√सम्-दिश् + ल्यप्)
काकुत्स्थोकाकुत्स्थ (१.१)
लक्ष्मणंलक्ष्मण (२.१)
शुभलक्षणम्शुभ–लक्षण (२.१)
मनसामनस् (३.१)
पुष्पकंपुष्पक (२.१)
दध्यावागच्छेतिदध्यौ (√ध्या लिट् प्र.पु. एक.)–आगच्छ (√आ-गम् लोट् म.पु. )–इति (अव्ययः)
महायशाःमहत्–यशस् (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

था सं दिश्य का कु त्स्थो
क्ष्म णंशुक्ष णम्
सा पुष्प कं ध्या
वा च्छेति हा शाः