७.६६.७

सोऽब्रवीत्प्रणतो भूत्वा अयमस्मि नराधिप ।
वश्यस्तव महाबाहो किंकरः समुपस्थितः ॥

पदच्छेदः

सोतद् (१.१)
ऽब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
प्रणतोप्रणत (√प्र-नम् + क्त, १.१)
भूत्वाभूत्वा (√भू + क्त्वा)
अयम्इदम् (१.१)
अस्मिअस्मि (√अस् लट् उ.पु. )
नराधिपनराधिप (८.१)
वश्यस्तववश्य (१.१)–त्वद् (६.१)
महाबाहोमहत्–बाहु (८.१)
किंकरःकिंकर (१.१)
समुपस्थितःसमुपस्थित (√समुप-स्था + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सोऽब्र वीत्प्र तो भू त्वा
स्मि राधि
श्यस्त हा बा हो
किं रःमुस्थि तः