७.६७.१२

इदं चाभरणं सौम्य निर्मितं विश्वकर्मणा ।
दिव्यं दिव्येन वपुषा दीप्यमानं स्वतेजसा ।
प्रतिगृह्णीष्व काकुत्स्थ मत्प्रियं कुरु राघव ॥

M N Dutt

This ornament, O gentle one, has been made by the architect of the celestials; its make is very beautiful and it is dazzling by its own lustre.

पदच्छेदः

इदंइदम् (१.१)
चाभरणं (अव्ययः)–आभरण (१.१)
सौम्यसौम्य (८.१)
निर्मितंनिर्मित (√निः-मा + क्त, १.१)
विश्वकर्मणाविश्वकर्मन् (३.१)
दिव्यंदिव्य (१.१)
दिव्येनदिव्य (३.१)
वपुषावपुस् (३.१)
दीप्यमानंदीप्यमान (√दीप् + शानच्, १.१)
स्वतेजसास्व–तेजस् (३.१)
प्रतिगृह्णीष्वप्रतिगृह्णीष्व (√प्रति-ग्रह् लोट् म.पु. )
काकुत्स्थकाकुत्स्थ (८.१)
मत्प्रियंमद्–प्रिय (२.१)
कुरुकुरु (√कृ लोट् म.पु. )
राघवराघव (८.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
दं चा णं सौम्य निर्मि तंवि
श्वर्म णा दि व्यं दि व्येपु षा
दीप्य मा नंस्व ते साप्रति गृ ह्णी
ष्व का कुत्स्थत्प्रि यंकुरु रा