७.६७.१३

दत्तस्य हि पुनर्दानं सुमहत्फलमुच्यते ।
तस्मात्प्रदास्ये विधिवत्तत्प्रतीच्छ नरर्षभ ॥

पदच्छेदः

दत्तस्यदत्त (√दा + क्त, ६.१)
हिहि (अव्ययः)
पुनर्पुनर् (अव्ययः)
दानंदान (१.१)
सुमहत्सु (अव्ययः)–महत् (१.१)
फलम्फल (१.१)
उच्यतेउच्यते (√वच् प्र.पु. एक.)
तस्मात्तस्मात् (अव्ययः)
प्रदास्येप्रदास्ये (√प्र-दा लृट् उ.पु. )
विधिवत्विधिवत् (अव्ययः)
तत्तद् (२.१)
प्रतीच्छप्रतीच्छ (√प्रति-इष् लोट् म.पु. )
नरर्षभनर–ऋषभ (८.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्तस्यहिपु र्दा नं
सुत्फ मुच्य ते
स्मात्प्र दा स्येविधि
त्तत्प्र तीच्छर्ष