७.६७.२

शूद्रयोन्यां प्रसूतोऽस्मि तप उग्रं समास्थितः ।
देवत्वं प्रार्थये राम सशरीरो महायशः ॥

M N Dutt

O highly illustrious Rāma, I am born in the race of sūdras; and with a view to reach the region of the celestials with my body I am going through these austere penances.

पदच्छेदः

शूद्रयोन्यांशूद्र–योनि (७.१)
प्रसूतोप्रसूत (√प्र-सू + क्त, १.१)
ऽस्मिअस्मि (√अस् लट् उ.पु. )
तपतपस् (२.१)
उग्रंउग्र (२.१)
समास्थितःसमास्थित (√समा-स्था + क्त, १.१)
देवत्वंदेव–त्व (२.१)
प्रार्थयेप्रार्थये (√प्र-अर्थय् लट् उ.पु. )
रामराम (८.१)
सशरीरो (अव्ययः)–शरीर (१.१)
महायशःमहत्–यशस् (८.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

शूद्र यो न्यांप्र सू तोऽस्मि
ग्रं मास्थि तः
दे त्वं प्रार्थ ये रा
री रो हा शः