७.६७.६

ततोऽगस्त्याश्रमपदं रामः कमललोचनः ।
स गत्वा विनयेनैव तं नत्वा मुमुदे सुखी ॥

पदच्छेदः

ततोततस् (अव्ययः)
ऽगस्त्याश्रमपदंअगस्त्य–आश्रम–पद (२.१)
रामःराम (१.१)
कमललोचनःकमल–लोचन (१.१)
तद् (१.१)
गत्वागत्वा (√गम् + क्त्वा)
विनयेनैवविनय (३.१)–एव (अव्ययः)
तंतद् (२.१)
नत्वानत्वा (√नम् + क्त्वा)
मुमुदेमुमुदे (√मुद् लिट् प्र.पु. एक.)
सुखीसुखिन् (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तो ऽग स्त्याश्र दं
रा मः लो नः
त्वावि ये नै
तं त्वामुमु देसु खी