७.६८.१०

अथापश्यं मुहूर्तात्तु दिव्यमद्भुतदर्शनम् ।
विमानं परमोदारं हंसयुक्तं मनोजवम् ॥

पदच्छेदः

अथापश्यंअथ (अव्ययः)–अपश्यम् (√पश् लङ् उ.पु. )
मुहूर्तात्मुहूर्त (५.१)
तुतु (अव्ययः)
दिव्यम्दिव्य (२.१)
अद्भुतदर्शनम्अद्भुत–दर्शन (२.१)
विमानंविमान (२.१)
परमोदारंपरम–उदार (२.१)
हंसयुक्तंहंस–युक्त (√युज् + क्त, २.१)
मनोजवम्मनोजव (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

था श्यंमु हू र्तात्तु
दिव्यद्भुर्श नम्
वि मा नं मो दा रं
हं यु क्तं नो वम्