७.६८.९

तमर्थं चिन्तयानोऽहं मुहूर्तं तत्र राघव ।
विष्ठितोऽस्मि सरस्तीरे किं न्विदं स्यादिति प्रभो ॥

पदच्छेदः

तम्तद् (२.१)
अर्थंअर्थ (२.१)
चिन्तयानोचिन्तयान (√चिन्तय् + शानच्, १.१)
ऽहंमद् (१.१)
मुहूर्तंमुहूर्त (२.१)
तत्रतत्र (अव्ययः)
राघवराघव (८.१)
विष्ठितोविष्ठित (√वि-स्था + क्त, १.१)
ऽस्मिअस्मि (√अस् लट् उ.पु. )
सरस्तीरेसरस्–तीर (७.१)
किं (१.१)
न्विदंनु (अव्ययः)–इदम् (१.१)
स्याद्स्यात् (√अस् विधिलिङ् प्र.पु. एक.)
इतिइति (अव्ययः)
प्रभोप्रभु (८.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

र्थं चिन्त या नो ऽहं
मु हू र्तंत्र रा
विष्ठि तोऽस्मि स्ती रे
किंन्वि दं स्यादि तिप्र भो