७.६८.१४

उपस्पृश्य यथान्यायं स स्वर्गी पुरुषर्षभ ।
आरोढुमुपचक्राम विमानवरमुत्तमम् ॥

पदच्छेदः

उपस्पृश्यउपस्पृश्य (√उप-स्पृश् + ल्यप्)
यथान्यायंयथान्यायम् (अव्ययः)
तद् (१.१)
स्वर्गीस्वर्गिन् (१.१)
पुरुषर्षभपुरुष–ऋषभ (८.१)
आरोढुम्आरोढुम् (√आ-रुह् + तुमुन्)
उपचक्रामउपचक्राम (√उप-क्रम् लिट् प्र.पु. एक.)
विमानवरम्विमान–वर (२.१)
उत्तमम्उत्तम (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्पृश्य था न्या यं
स्व र्गीपुरुर्ष
रोढुमु क्रा
वि मा मुत्त मम्