७.६८.४

तस्यारण्यस्य मध्ये तु सरो योजनमायतम् ।
पद्मोत्पलसमाकीर्णं समतिक्रान्तशैवलम् ॥

पदच्छेदः

तस्यारण्यस्यतद् (६.१)–अरण्य (६.१)
मध्येमध्य (७.१)
तुतु (अव्ययः)
सरोसरस् (१.१)
योजनम्योजन (२.१)
आयतम्आयत (√आ-यम् + क्त, १.१)
पद्मोत्पलसमाकीर्णंपद्म–उत्पल–समाकीर्ण (√समा-कृ + क्त, १.१)
समतिक्रान्तशैवलम्समतिक्रान्त (√समति-क्रम् + क्त)–शैवल (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्या ण्यस्य ध्येतु
रो यो मा तम्
द्मोत्प मा की र्णं
ति क्रान्त शै लम्