७.६८.६

तस्मिन्सरःसमीपे तु महदद्भुतमाश्रमम् ।
पुराणं पुण्यमत्यर्थं तपस्विजनवर्जितम् ॥

पदच्छेदः

तस्मिन्तद् (७.१)
सरःसमीपेसरस्–समीप (७.१)
तुतु (अव्ययः)
महद्महत् (१.१)
अद्भुतम्अद्भुत (१.१)
आश्रमम्आश्रम (१.१)
पुराणंपुराण (१.१)
पुण्यम्पुण्य (१.१)
अत्यर्थंअत्यर्थम् (अव्ययः)
तपस्विजनवर्जितम्तपस्विन्–जन–वर्जित (√वर्जय् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्मिन्स रः मी पेतु
द्भु माश्र मम्
पु रा णं पुण्य त्य र्थं
स्विर्जि तम्