७.७.२१

तथा ते राक्षसा युद्धे विष्णुना प्रभविष्णुना ।
द्रवन्ति द्राविताश्चैव शायिताश्च महीतले ॥

पदच्छेदः

तथातथा (अव्ययः)
तेतद् (१.३)
राक्षसाराक्षस (१.३)
युद्धेयुद्ध (७.१)
विष्णुनाविष्णु (३.१)
प्रभविष्णुनाप्रभविष्णु (३.१)
द्रवन्तिद्रवन्ति (√द्रु लट् प्र.पु. बहु.)
द्राविताश्चैवद्रावित (√द्रावय् + क्त, १.३)–च (अव्ययः)–एव (अव्ययः)
शायिताश्चशायित (√शायय् + क्त, १.३)–च (अव्ययः)
महीतलेमही–तल (७.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

था ते राक्ष सा यु द्धे
विष्णु नाप्र विष्णु ना
द्र न्ति द्रावि ता श्चै
शायि ताश्च ही ले