७.७.५

स्यन्दनैः स्यन्दनगता गजैश्च गजधूर्गताः ।
अश्वारोहाः सदश्वैश्च पादाताश्चाम्बरे चराः ॥

पदच्छेदः

स्यन्दनैःस्यन्दन (३.३)
स्यन्दनगतास्यन्दन–गत (√गम् + क्त, १.३)
गजैश्चगज (३.३)–च (अव्ययः)
गजधूर्गताःगज–धूर्गत (१.३)
अश्वारोहाःअश्व–आरोह (१.३)
सदश्वैश्चसत्–अश्व (३.३)–च (अव्ययः)
पादाताश्चाम्बरेपादात (१.३)–च (अव्ययः)–अम्बर (७.१)
चराःचर (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्यन्द नैः स्यन्द ता
जैश्च धूर्ग ताः
श्वा रो हाः श्वैश्च
पा दा ता श्चाम्ब रे राः