७.७१.११

अन्यथा तु फलं तुभ्यं भवेद्घोराभिसंहितम् ।
क्रोधेन हि पिता मेऽसौ त्रैलोक्यमपि निर्दहेत् ॥

पदच्छेदः

अन्यथाअन्यथा (अव्ययः)
तुतु (अव्ययः)
फलंफल (१.१)
तुभ्यंत्वद् (४.१)
भवेद्भवेत् (√भू विधिलिङ् प्र.पु. एक.)
घोराभिसंहितम्घोर–अभिसंहित (√अभिसम्-धा + क्त, १.१)
क्रोधेनक्रोध (३.१)
हिहि (अव्ययः)
पितापितृ (१.१)
मेमद् (६.१)
ऽसौअदस् (१.१)
त्रैलोक्यम्त्रैलोक्य (२.१)
अपिअपि (अव्ययः)
निर्दहेत्निर्दहेत् (√निः-दह् विधिलिङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

न्य थातु लं तु भ्यं
वे द्घो राभि संहि तम्
क्रो धेहिपि ता मे ऽसौ
त्रै लोक्यपि निर्द हेत्