७.७१.१२

एवं ब्रुवाणामरजां दण्डः कामशरार्दितः ।
प्रत्युवाच मदोन्मत्तः शिरस्याधाय सोऽञ्जलिम् ॥

M N Dutt

Arajas having said this, the king Danda, maddened with lust, placing folded palms on his head, said.

पदच्छेदः

एवंएवम् (अव्ययः)
ब्रुवाणाम्ब्रुवाण (√ब्रू + शानच्, २.१)
अरजांअरजा (२.१)
दण्डःदण्ड (१.१)
कामशरार्दितःकाम–शर–अर्दित (√अर्दय् + क्त, १.१)
प्रत्युवाचप्रत्युवाच (√प्रति-वच् लिट् प्र.पु. एक.)
मदोन्मत्तःमद–उन्मत्त (√उत्-मद् + क्त, १.१)
शिरस्याधायशिरस् (७.१)–आधाय (√आ-धा + ल्यप्)
सोतद् (१.१)
ऽञ्जलिम्अञ्जलि (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वंब्रु वा णा जां
ण्डः का रार्दि तः
प्रत्यु वा दो न्म त्तः
शि स्या धा सोऽञ्ज लिम्