७.७१.९

गुरुः पिता मे राजेन्द्र त्वं च शिष्यो महात्मनः ।
व्यसनं सुमहत्क्रुद्धः स ते दद्यान्महातपाः ॥

पदच्छेदः

गुरुःगुरु (१.१)
पितापितृ (१.१)
मेमद् (६.१)
राजेन्द्रराजन्–इन्द्र (८.१)
त्वंत्वद् (१.१)
(अव्ययः)
शिष्योशिष्य (१.१)
महात्मनःमहात्मन् (६.१)
व्यसनंव्यसन (२.१)
सुमहत्सु (अव्ययः)–महत् (२.१)
क्रुद्धःक्रुद्ध (√क्रुध् + क्त, १.१)
तद् (१.१)
तेत्वद् (४.१)
दद्यान्महातपाःदद्यात् (√दा विधिलिङ् प्र.पु. एक.)–महत्–तपस् (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

गु रुःपि ता मे रा जेन्द्र
त्वं शि ष्यो हात्म नः
व्य नंसु त्क्रु द्धः
ते द्यान्म हा पाः