७.७३.२

तत्रोदकमुपस्पृश्य संध्यामन्वास्य पश्चिमाम् ।
आश्रमं प्राविशद्रामः कुम्भयोनेर्महात्मनः ॥

M N Dutt

Hearing the words of the great saint, Rāma, to perform the evening adoration, went to the pond filled with Apsarās; and having performed the worship he again returned to the hermitage of the high-souled Agastya.

पदच्छेदः

तत्रोदकम्तत्र (अव्ययः)–उदक (२.१)
उपस्पृश्यउपस्पृश्य (√उप-स्पृश् + ल्यप्)
संध्याम्संध्या (२.१)
अन्वास्यअन्वास्य (√अनु-आस् + ल्यप्)
पश्चिमाम्पश्चिम (२.१)
आश्रमंआश्रम (२.१)
प्राविशद्प्राविशत् (√प्र-विश् लङ् प्र.पु. एक.)
रामःराम (१.१)
कुम्भयोनेर्कुम्भयोनि (६.१)
महात्मनःमहात्मन् (६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्रोमु स्पृश्य
सं ध्या न्वास्यश्चि माम्
श्र मं प्रावि द्रा मः
कुम्भ यो नेर्म हात्म नः