७.७३.१

ऋषेर्वचनमाज्ञाय रामः संध्यामुपासितुम् ।
उपाक्रामत्सरः पुण्यमप्सरोभिर्निषेवितम् ॥

पदच्छेदः

ऋषेर्ऋषि (६.१)
वचनम्वचन (२.१)
आज्ञायआज्ञाय (√आ-ज्ञा + ल्यप्)
रामःराम (१.१)
संध्याम्संध्या (२.१)
उपासितुम्उपासितुम् (√उप-आस् + तुमुन्)
उपाक्रामत्उपाक्रामत् (√उप-क्रम् लङ् प्र.पु. एक.)
सरःसरस् (२.१)
पुण्यम्पुण्य (२.१)
अप्सरोभिर्अप्सरस् (३.३)
निषेवितम्निषेवित (√नि-सेव् + क्त, २.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

षेर्व मा ज्ञा
रा मः सं ध्यामु पासि तुम्
पा क्रात्स रः पुण्य
प्स रो भिर्नि षेवि तम्