७.७४.१

तच्छ्रुत्वा भाषितं तस्य रामस्याक्लिष्टकर्मणः ।
द्वाःस्थः कुमारावाहूय राघवाय न्यवेदयत् ॥

M N Dutt

According to the command of Räma of unwearied actions, the warders went to the princes and communicated to them (the arrival).

पदच्छेदः

तच्छ्रुत्वातद् (२.१)–श्रुत्वा (√श्रु + क्त्वा)
भाषितंभाषित (२.१)
तस्यतद् (६.१)
रामस्याक्लिष्टकर्मणःराम (६.१)–अक्लिष्ट–कर्मन् (६.१)
द्वाःस्थःद्वाःस्थ (१.१)
कुमारावाहूयकुमार (२.२)–आहूय (√आ-ह्वा + ल्यप्)
राघवायराघव (४.१)
न्यवेदयत्न्यवेदयत् (√नि-वेदय् लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

च्छ्रु त्वा भाषि तंस्य
रा स्या क्लिष्टर्म णः
द्वाः स्थःकु मा रा वा हू
रा वान्य वे यत्