७.७४.१०

महीपालाश्च सर्वे त्वां प्रजापतिमिवामराः ।
निरीक्षन्ते महात्मानो लोकनाथं यथा वयम् ॥

पदच्छेदः

महीपालाश्चमहीपाल (१.३)–च (अव्ययः)
सर्वेसर्व (१.३)
त्वांत्वद् (२.१)
प्रजापतिम्प्रजापति (२.१)
इवामराःइव (अव्ययः)–अमर (१.३)
निरीक्षन्तेनिरीक्षन्ते (√निः-ईक्ष् लट् प्र.पु. बहु.)
महात्मानोमहात्मन् (१.३)
लोकनाथंलोकनाथ (२.१)
यथायथा (अव्ययः)
वयम्मद् (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ही पा लाश्च र्वे त्वां
प्र जातिमि वा राः
नि री क्ष न्ते हा त्मा नो
लो ना थं था यम्