७.७४.११

प्रजाश्च पितृवद्राजन्पश्यन्ति त्वां महाबल ।
पृथिव्यां गतिभूतोऽसि प्राणिनामपि राघव ॥

पदच्छेदः

प्रजाश्चप्रजा (१.३)–च (अव्ययः)
पितृवद्पितृ–वत् (अव्ययः)
राजन्राजन् (८.१)
पश्यन्तिपश्यन्ति (√दृश् लट् प्र.पु. बहु.)
त्वांत्वद् (२.१)
महाबलमहत्–बल (८.१)
पृथिव्यांपृथिवी (७.१)
गतिभूतोगति–भूत (√भू + क्त, १.१)
ऽसिअसि (√अस् लट् म.पु. )
प्राणिनाम्प्राणिन् (६.३)
अपिअपि (अव्ययः)
राघवराघव (८.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

प्र जाश्चपितृ द्रा
न्प श्य न्ति त्वां हा
पृ थि व्यांति भू तोऽसि
प्राणि नापि रा