७.७७.१०

ततो यज्ञसमाप्तौ तु ब्रह्महत्या महात्मनः ।
अभिगम्याब्रवीद्वाक्यं क्व मे स्थानं विधास्यथ ॥

पदच्छेदः

ततोततस् (अव्ययः)
यज्ञसमाप्तौयज्ञ–समाप्ति (७.१)
तुतु (अव्ययः)
ब्रह्महत्याब्रह्महत्या (१.१)
महात्मनःमहात्मन् (६.१)
अभिगम्याब्रवीद्अभिगम्य (√अभि-गम् + ल्यप्)–अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
वाक्यंवाक्य (२.१)
क्वक्व (अव्ययः)
मेमद् (६.१)
स्थानंस्थान (२.१)
विधास्यथविधास्यथ (√वि-धा लृट् म.पु. द्वि.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तोज्ञ मा प्तौतु
ब्रह्म त्या हात्म नः
भि म्याब्र वी द्वा क्यं
क्व मे स्था नंवि धास्य