७.७८.१

तच्छ्रुत्वा लक्ष्मणेनोक्तं वाक्यं वाक्यविशारदः ।
प्रत्युवाच महातेजाः प्रहसन्राघवो वचः ॥

M N Dutt

Hearing the words of Laksmana and smiling, the highly effulgent descendant of Raghu, Rāma, skilled in the are of speech, replied.

पदच्छेदः

तच्छ्रुत्वातद् (२.१)–श्रुत्वा (√श्रु + क्त्वा)
लक्ष्मणेनोक्तंलक्ष्मण (३.१)–उक्त (√वच् + क्त, २.१)
वाक्यंवाक्य (२.१)
वाक्यविशारदःवाक्य–विशारद (१.१)
प्रत्युवाचप्रत्युवाच (√प्रति-वच् लिट् प्र.पु. एक.)
महातेजाःमहत्–तेजस् (१.१)
प्रहसन्प्रहसत् (√प्र-हस् + शतृ, १.१)
राघवोराघव (१.१)
वचःवचस् (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

च्छ्रु त्वाक्ष्म णे नो क्तं
वा क्यं वाक्यवि शा दः
प्रत्यु वा हा ते जाः
प्र न्रा वो चः