७.७८.२२

ईशे वराणां वरदे लोकानामसि भामिनि ।
अमोघदर्शने देवि भजे सौम्ये नमोऽस्तु ते ॥

पदच्छेदः

ईशेईशा (८.१)
वराणांवर (६.३)
वरदेवर–द (८.१)
लोकानाम्लोक (६.३)
असिअसि (√अस् लट् म.पु. )
भामिनिभामिनी (८.१)
अमोघदर्शनेअमोघ–दर्शन (८.१)
देविदेवी (८.१)
भजेभजे (√भज् लट् उ.पु. )
सौम्येसौम्य (८.१)
नमोनमस् (१.१)
ऽस्तुअस्तु (√अस् लोट् प्र.पु. एक.)
तेत्वद् (४.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

शे रा णां दे
लो का नासि भामिनि
मोर्श ने देवि
जे सौ म्ये मोऽस्तु ते