७.८.२५

भवान्नारायणो देवश्चतुर्बाहुः सनातनः ।
राक्षसान्हन्तुमुत्पन्नो अजेयः प्रभुरव्ययः ॥

M N Dutt

And you are that eternal god the four armed Narayana, the lord, undeteriorating and unconquerable, sprung to exterminate Rāksasas.

पदच्छेदः

भवान्नारायणोभवत् (१.१)–नारायण (१.१)
देवश्चतुर्बाहुःदेव (१.१)–चतुर्–बाहु (१.१)
सनातनःसनातन (१.१)
राक्षसान्राक्षस (२.३)
हन्तुम्हन्तुम् (√हन् + तुमुन्)
उत्पन्नोउत्पन्न (√उत्-पद् + क्त, १.१)
ऽजेयःअजेय (१.१)
प्रभुर्प्रभु (१.१)
अव्ययःअव्यय (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वा न्ना रा णो दे
श्च तु र्बा हुः ना नः
राक्ष सा न्हन्तु मु त्प न्नो
जे यःप्रभुव्य यः