७.८.२४

न चान्यो रक्षसां हन्ता सुरेष्वपि पुरंजय ।
ऋते नारायणं देवं शङ्खचक्रगदाधरम् ॥

M N Dutt

No other than the god Nārāyaṇa, holding the conch, the discus and the mace, could slay those Råkşasa-foes to the celestials and thorns in the side of the deties.

पदच्छेदः

(अव्ययः)
चान्यो (अव्ययः)–अन्य (१.१)
रक्षसांरक्षस् (६.३)
हन्ताहन्तृ (१.१)
सुरेष्वपिसुर (७.३)–अपि (अव्ययः)
पुरंजयपुरंजय (८.१)
ऋतेऋते (अव्ययः)
नारायणंनारायण (२.१)
देवंदेव (२.१)
शङ्खचक्रगदाधरम्शङ्ख–चक्र–गदा–धर (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

चा न्योक्ष सां न्ता
सु रेष्वपिपु रं
ते ना रा णं दे वं
ङ्खक्र दा रम्