७.८१.१०

ते सर्वे हृष्टमनसः परस्परसमागमे ।
हितैषिणो बाह्लि पतेः पृथग्वाक्यमथाब्रुवन् ॥

M N Dutt

Being greatly delighted for their arrival they all gave out their individual opinion for bringing about the well-being of the king of Valhika.

पदच्छेदः

तेतद् (१.३)
सर्वेसर्व (१.३)
हृष्टमनसःहृष्ट (√हृष् + क्त)–मनस् (१.३)
परस्परसमागमेपरस्पर–समागम (७.१)
हितैषिणोहित–एषिन् (१.३)
बाह्लिपतेःबाह्लि–पति (६.१)
पृथग्पृथक् (अव्ययः)
वाक्यम्वाक्य (२.१)
अथाब्रुवन्अथ (अव्ययः)–अब्रुवन् (√ब्रू लङ् प्र.पु. बहु.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ते र्वे हृष्ट सः
स्प मा मे
हि तैषि णो बाह्लि तेः
पृ ग्वाक्य थाब्रु वन्