७.८१.१५

ततो यज्ञो महानासीद्बुधाश्रमसमीपतः ।
रुद्रश्च परमं तोषमाजगाम महायशाः ॥

पदच्छेदः

ततोततस् (अव्ययः)
यज्ञोयज्ञ (१.१)
महान्महत् (१.१)
आसीद्आसीत् (√अस् लङ् प्र.पु. एक.)
बुधाश्रमसमीपतःबुध–आश्रम–समीप (५.१)
रुद्रश्चरुद्र (१.१)–च (अव्ययः)
परमंपरम (२.१)
तोषम्तोष (२.१)
आजगामआजगाम (√आ-गम् लिट् प्र.पु. एक.)
महायशाःमहत्–यशस् (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तो ज्ञो हा ना सी
द्बु धाश्र मी तः
रु द्रश्च मं तो
मा गा हा शाः