७.८१.८

तेषां संवदतामेव तमाश्रममुपागमत् ।
कर्दमः सुमहातेजा द्विजैः सह महात्मभिः ॥

पदच्छेदः

तेषांतद् (६.३)
संवदताम्संवदत् (√सम्-वद् + शतृ, ६.३)
एवएव (अव्ययः)
तम्तद् (२.१)
आश्रमम्आश्रम (२.१)
उपागमत्उपागमत् (√उपा-गम् प्र.पु. एक.)
कर्दमःकर्दम (१.१)
सुमहातेजासु (अव्ययः)–महत्–तेजस् (१.१)
द्विजैःद्विज (३.३)
सहसह (अव्ययः)
महात्मभिःमहात्मन् (३.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ते षां सं ता मे
माश्रमु पा मत्
र्द मःसु हा ते जा
द्वि जैः हात्म भिः