७.८३.१२

ये च तत्र महात्मानो मुनयश्चिरजीविनः ।
नास्मरंस्तादृशं यज्ञं दानौघसमलंकृतम् ॥

पदच्छेदः

येयद् (१.३)
(अव्ययः)
तत्रतत्र (अव्ययः)
महात्मानोमहात्मन् (१.३)
मुनयश्चिरजीविनःमुनि (१.३)–चिर–जीविन् (१.३)
नास्मरंस्तादृशं (अव्ययः)–अस्मरन् (√स्मृ लङ् प्र.पु. बहु.)–तादृश (२.१)
यज्ञंयज्ञ (२.१)
दानौघसमलंकृतम्दान–ओघ–समलंकृत (√समलं-कृ + क्त, २.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

येत्र हा त्मा नो
मुश्चि जीवि नः
नास्म रं स्तादृ शं ज्ञं
दा नौ लंकृ तम्