७.८३.४

नैमिषे वसतस्तस्य सर्व एव नराधिपाः ।
आजग्मुः सर्वराष्ट्रेभ्यस्तान्रामः प्रत्यपूजयत् ॥

M N Dutt

While he remained in the Naimisa forest, all the kings sent him presents and Rāma also made returns.

पदच्छेदः

नैमिषेनैमिष (७.१)
वसतस्तस्यवसत् (√वस् + शतृ, ६.१)–तद् (६.१)
सर्वसर्व (१.३)
एवएव (अव्ययः)
नराधिपाःनराधिप (१.३)
आजग्मुःआजग्मुः (√आ-गम् लिट् प्र.पु. बहु.)
सर्वराष्ट्रेभ्यस्तान्सर्व–राष्ट्र (५.३)–तद् (२.३)
रामःराम (१.१)
प्रत्यपूजयत्प्रत्यपूजयत् (√प्रति-पूजय् लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

नैमि षे स्तस्य
र्व राधि पाः
ग्मुःर्व रा ष्ट्रेभ्य
स्ता न्रा मः प्रत्य पू यत्