७.८५.१२

ततोऽपराह्णसमये राघवः समभाषत ।
श्रुत्वा विंशतिसर्गांस्तान्भरतं भ्रातृवत्सलः ॥

पदच्छेदः

ततोततस् (अव्ययः)
ऽपराह्णसमयेअपराह्ण–समय (७.१)
राघवःराघव (१.१)
समभाषतसमभाषत (√सम्-भाष् लङ् प्र.पु. एक.)
श्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
विंशतिसर्गांस्तान्विंशति–सर्ग (२.३)–तद् (२.३)
भरतंभरत (२.१)
भ्रातृवत्सलःभ्रातृ–वत्सल (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तोऽप राह्ण ये
रा वः भा
श्रु त्वा विंति र्गां स्ता
न्भ तं भ्रातृत्स लः