७.८५.११

प्रवृत्तमादितः पूर्वं सर्गान्नारददर्शनात् ।
ततः प्रभृति सर्गांश्च यावद्विंशत्यगायताम् ॥

पदच्छेदः

प्रवृत्तम्प्रवृत्त (√प्र-वृत् + क्त, १.१)
आदितःआदि (५.१)
पूर्वंपूर्वम् (अव्ययः)
सर्गान्नारददर्शनात्सर्ग (२.३)–नारद–दर्शन (५.१)
ततःततस् (अव्ययः)
प्रभृतिप्रभृति (अव्ययः)
सर्गांश्चसर्ग (२.३)–च (अव्ययः)
यावद्विंशत्यगायताम्यावत् (अव्ययः)–विंशति (२.१)–अगायताम् (√गा लङ् प्र.पु. द्वि.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

प्र वृत्त मादि तः पू र्वं
र्गा न्नार्श नात्
तःप्रभृति र्गांश्च
या द्विंत्य गा ताम्